Fundraising 2011/Jimmy Letter 002/sa
Pages for translation: [edit status] | |
Interface messages high priority Translated on Translatewiki. Get started. |
In progress |
Banners and LPs (source) high priority |
Published |
Banners 2 (source) high priority |
Missing |
Jimmy Letter 002 (source) high priority |
Published |
Jimmy Letter 003 (source) variation of Jimmy Letter 002 |
Missing |
Jimmy Letter 004 (source) variation of Jimmy Letter 002 |
Missing |
Jimmy Mail (source) variation of Jimmy Letter 002 |
Missing |
Brandon Letter (source) | Missing |
Alan Letter (source) | Missing |
Kaldari Letter (source) | Missing |
Karthik Letter (source) | Missing |
Thank You Mail (source) | Missing |
Thank You Page (source) | Missing |
Problems donating (source) | Missing |
Recurring giving (source) | Missing |
Sue Thank You (source) | Missing |
FAQ (source) low priority |
Missing |
Various requests: Mail to past donors · Jimmy quote | |
Translation instructions |
---|
If you have any questions or feedback regarding the translation process, please post them here. Translation FAQ |
गूगल्जालव्यवस्थायां केन्द्रीकृतसम्पद्वितरणयन्त्राणि(Servers) उपदशलक्षं सन्ति । याहूजाले १३,००० कार्यकर्तारः विद्यन्ते । अस्मत्समीपे विद्यन्ते ४०० केन्द्रीकृतसम्पद्वितरणयन्त्राणि ९३ कार्यकर्तारश्च ।
अन्तर्जाले विकिपीडियाजालक्षेत्रं ५ स्थाने विद्यते । प्रतिमासं ४२ कोट्यधिकाः जनाः १०० कोट्यधिकानां लेखानां पठनेन इतः उपकृताः भवन्ति ।
वाणिज्यम् उत्तमम् । विज्ञापनं न दोषाय । किन्तु अत्र तत् न अन्वेति । न अस्यां विकिपीडियायोजनायाम् ।
विकिपीडिया अस्ति किञ्चित् विशिष्टा । इयं विद्यते ग्रन्थालयसदृशी सार्वजनिकोद्यानवत् वा । इयमस्ति मानसदेवालयसदृशी । नूतनचिन्तनाय पठनाय अन्यैः सह ज्ञानविनिमयाय च अत्र वयं सर्वे सम्मिलेम ।
विकिपीडियायाः संस्थापनावसरे विज्ञापकफलकैः इमां लाभमूलसंस्थारूपेण विधातुम् अहम् अशक्ष्यम् । किन्तु मया विशिष्टं किञ्चित् कर्तव्यम् इति चिन्तितम् । बहूनां वर्षाणां महता परिश्रमेण अस्माभिः अत्र सारल्यं सुव्यवस्था च रक्षिता अस्ति । वयम् अस्माकं लक्ष्यम् अनुसरेम अवशिष्टं परित्यजेम च ।
अस्य वाचकः सर्वः अपि ५ डालर्परिमितं धनं यदि प्रयच्छेत्, तर्हि वर्षे दिनमेकं धनसङ्ग्रहः क्रियते चेत् पर्याप्तं भवेत् । किन्तु तथा सर्वः न यच्छति इत्येतत् सत्यम् । तत्तु समीचीनमेव । प्रतिवर्षं केचन एव दानोत्सुकाः भवन्ति ।
वर्षेऽस्मिन् $५ $१० $१००० ततोप्यधिकं धनराशिं वा विकिपीडियायाः परिपोषणाय यच्छन्तु इति सम्प्रार्थ्यते ।
धन्यवादः
जिम्मि वेल्स्
विकिपीडियासंस्थापकः